Table of Contents

<<4-3-120 —- 4-3-122>>

4-3-121 रथाद्यत्

प्रथमावृत्तिः

TBD.

काशिका

रथशब्दात् यत् प्रत्ययो भवति तस्य इदम् इत्येतस्म्न् विषये। अणो ऽपवादः। रथस्य इदम् रथ्यं, चक्रं वा युगं वा। रथाङ्ग एव इष्यते, न अन्यत्र अनभिधानात्। रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरुपसङ्ख्यायते। परमरथ्यम्। उत्तमरथ्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1480 रथाद्यत्। `तस्येद'मित्येव। रत्यं चक्रमिति। `रथाद्रथाङ्गे' इति वचनाच्चकमिति विशेष्यम्।

तत्त्वबोधिनी

1154 रथाद्यत्। अणोऽपवादः। `रथाद्रथाङ्गे'इति वार्तिकमिभिप्रेत्याह—रथ्यं चक्रमिति। `रथसीताहलेभ्यो यद्विधौ'इति तदन्तविधिरूपसङ्ख्यायते। परमरथ्यम्। उत्तमरथ्यम्। द्वयो रथयोरङ्गं द्विरथम्। इह `द्विगोर्लुगनपत्ये'इति यतो लुक्। ननु यत्प्रत्ययोऽत्र रथाङ्ग एव यदीष्यते कथं तर्हि `रथस्य वोढा रथ्यः'इति ?। `तद्वहती'त्यनेनेति चेत्। एवं तर्हि अयमेव यद्रथाङ्ग इव वोढर्यीष्यतां, `तद्वहति रथयुगप्रासङ्ग'मित्यत्र रथग्रहणं त्यज्यतामिति चेत्।मैवम्। द्वौ रथौ वहति द्विरथ्य इत्यत्र `द्विगोर्लुगनपत्ये'इति प्राग्दीव्यतीयस्य लुक्?प्रसङ्गात्। `तद्वहती'ति यत्प्रत्ययस्य तु प्राग्दीव्यतीयत्वाऽभावान्न लुगिति `द्विरथ्य 'इति सिध्यतीति। ननु `द्विगोर्लुगनपत्ये'इत्यत्राऽचीत्य[स्या]पकर्षणात्कथमत्र यतो लुक्प्रसक्तिरिति चेत्। अत्राहु—`तद्वहती'त्यत्र रथग्रहणमेव ज्ञापकम्—`एतस्य यतो हलादेरपि लुग् भवती'ति। अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यात्। तथा च द्वयो रथयोरङ्गमिति विग्रहे द्रिरथमिति प्रयोगः सुस्थ इति।

Satishji's सूत्र-सूचिः

TBD.