Table of Contents

<<4-3-111 —- 4-3-113>>

4-3-112 तेन एकदिक्

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थादेकदिकित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। एकदिक् तुल्यदिक् समानदिकित्यर्थः। सुदाम्ना एकदिक् सौदामनी विद्युत्। हैमवती। त्रैककुदि। पैलुमूली। तेन इति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दो ऽधिकारनिवृत्त्यर्थम्। पूर्वत्र हि छन्दो ऽधिकारात् तद्विषयता साध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1471 तेनैकदिक्। सहार्थे तृतीया। एका दिक् अधिकरणात्मिका यस्य तदेकदिक्। तेन सह एकस्यां दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। सौदामनीति। अणि `अ'निति प्रकृतिभावान्न टिलोपः।

तत्त्वबोधिनी

1150 तेनैकदिक्। तृतीयान्तादेकदिगित्यर्थे अमादयः स्युः। एकदिक्। समाना दिगित्यर्थः। पुनस्तेनेत्युक्तिश्छन्दोऽदिकारनिवृत्त्यर्था। सौदामनीति। `अन्'इति प्रकृतिभावान्न टिलोपः। `तडित्सौदामिनी विद्युदि'त्यमरः।

Satishji's सूत्र-सूचिः

TBD.