Table of Contents

<<4-3-110 —- 4-3-112>>

4-3-111 कर्मन्दकृशाश्वादिनिः

प्रथमावृत्तिः

TBD.

काशिका

भिक्षुनटसूत्रयोः इत्येव। कर्मन्दकृशाश्वशब्दाभ्याम् इनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये यथासङ्ख्यं भिक्षुनटसूत्रयोरभिधेययोः। अणो ऽपवादः। अत्र अपि तद्विषयतार्थं छन्दोग्रहणम् अनुवर्त्यम्। कर्मन्देन प्रोक्तम् अधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः। भिक्षुनटसूत्रयोः इत्येव, कार्मन्दम्। कार्शाश्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1470 कर्मन्द। कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे, कृशा\उfffदोन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत्। प्रत्यये अन्त्य इकार उच्चारणार्थः। कर्मन्दशब्दादिनिः। ततोऽध्येत्रणो लुक्। एवं `कृशा\उfffदिआनः'।

तत्त्वबोधिनी

1149 कर्मन्द। इहापि छन्दोनुवृत्त्यादि प्राग्वत्। भिक्षुनटसुत्रयोः किम्?। कार्मन्दम्। कार्श\उfffदाम्।

Satishji's सूत्र-सूचिः

TBD.