Table of Contents

<<4-3-112 —- 4-3-114>>

4-3-113 तसिश् च

प्रथमावृत्तिः

TBD.

काशिका

तसिश्च प्रत्ययो भवति तेन एकदिकित्येतस्मिन् विषये। पूर्वेण् घादिसु अणादिषु च प्राप्तेषु अयम् अपरः प्रत्ययो विधीयते। स्वरादिपाठादव्ययत्वम्। सुदामतः। हिमवत्तः। पिलुमूलतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1472 तसिश्च। `तेनैकदिगि'त्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः। इकार उच्चारणार्थः। स्वरादिपाठादिति। `स्वरादिनिपातमव्यय'मिति प्रकरणे `तद्धितश्चासर्वविभक्ति'रित्यत्र `तसिलादयः' इतिपरिगणने तसेः पाछादित्यर्थः।

तत्त्वबोधिनी

1151 तसिश्च। पूर्वोक्तविषये।

Satishji's सूत्र-सूचिः

TBD.