Table of Contents

<<4-3-109 —- 4-3-111>>

4-3-110 पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः

प्रथमावृत्तिः

TBD.

काशिका

णिनिरिह अनुवर्तते, न ढिनुक्। पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। भिक्षुनटसूत्रयोः इति यथासङ्ख्यं प्रत्ययार्थविशेषणम्। सूत्रशब्दः प्रत्येकम् अभिसम्बध्यते। तद्विषयता चात्रेष्यते, तदर्थें छन्दोग्रहणम् अनुवर्त्यं, गुणकल्पनया च भिक्षुनटसूत्रयोः छन्दस्त्वम्। पाराशर्येण प्रोक्तम् अधीयते पराशरिणो भिक्षवः। शैलालिनो नटाः। भिक्षुनटसूत्रयोः इति किम्? पाराशरम्। शैलालम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1469 पाराशर्येणेति। पराशरशब्दाद्गर्गादित्वाद्गोत्रे यञि-`पाराशर्यः' व्यासः। इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ्। तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक्। पाराशरिण इति। जसि रूपम्। शैलालिन इति। शिलालिन्शब्दान्नटसूत्रे प्रोक्ते णिनौ टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याऽणो लुकि `शैलालिन' इति जसि रूपमिति भावः।

तत्त्वबोधिनी

1148 पराशर्य। मण्डूकप्लुयाणिनिरिह सम्बध्यत इत्याह—णिनिः स्यादिति। तद्विषयताऽत्रेष्यते, तदर्थं छन्दोग्रहणमनुवर्त्त्यम्। सूत्रयोश्छन्दस्त्वं तु गौण्या वृत्त्या बोध्यम्। भिक्षुसूत्रमिति। चतुर्लक्षणीरूपम्। पाराशरिण इति। पाराशर्यो—व्यासः। अनन्तरापत्येऽपि गोत्रत्वेनोपचारात् `गर्गादिभ्यः'इति यञ्। `आपत्यस्य चे'ति यलोपः। अध्येत्रणस्तु `प्रोक्ता'दिति लुक्। भिक्षुनटसूत्रयोः किम्?। पराशरम्। शैलालम्।

Satishji's सूत्र-सूचिः

TBD.