TBD.
कलाप्यन्तेवासिनां वैशम्पायनान्तेवासिनां च ये वाचकाः शब्दास् तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। अणो ऽपवादः। छं तु परत्वाद् बाधते। तत्र कलाप्यन्तेवासिनश्चत्वारः हरिद्रुः, छगली, तुम्बुरुः, उलपः इति। वैशम्पायनान्तेवसिनः नव आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति। प्रत्यक्षकारिणो गृह्यन्ते न तु व्यवहिताः शैष्यशिष्याः। कुतः? कलापिखाण्डायनग्रहणात्। तथा हि वैशम्पायनान्तेवासी कलापी, तदन्तेवासिनो वैशम्पायनान्तेवासिन एव भवन्ति, किं कलापिग्रहणेन? तथा वैशम्पायनान्तेवासी कठस् तदन्तेवासी खाण्डायनः, तस्य किं शौनकादिसु पाठेन? तदेतत् प्रत्यक्षकारिग्रहणस्य लिङ्गम्। कलाप्यनतेवासिभ्यः तावत् हरिद्रुणा प्रोक्तम् अधीयते हारिद्रविणः। तौम्बुरविणः। औलपिनः। छङ्गलिनः ढिनुकं वक्ष्यति। वैशम्पायनान्तेवासिभ्यः आलम्बिनः। पालङ्गिनः। कामलिनः। आर्चाभिनः। आरुणिनः। ताण्डिनः। श्यामायनिनः। कठाल्लुकं वक्ष्यति, कलापिनश्चाणम्। हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरू। उलपेन चतुर्थेन कालापकम् इह उच्यते। आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ। ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयो ऽपरे। श्यामायन उदिच्येषु उक्तः कठकलापिनोः। चरकः इति वैशम्पायनस्याख्या, तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरकाः इत्युच्यन्ते।
TBD.
–
1463 कलापि। `तेन प्राक्त'मित्येव। कलापिशिष्यवाचिभ्यो, वैशम्पायनशिष्यवाचिभ्यश्च णिनिः स्यादित्यर्थः। कलाप्यन्तेवासिभ्य इति। `उदाह्यियते' इति शेषः। हारिद्रविण इति। हरिद्रुर्नाम कलापिनः शिष्यः। ततः प्रोक्ते णिनिः। `ओर्गुणः'। आदिवृद्धिः। हरिद्रविन्शब्दादध्येत्रणः `प्रोक्ताल्लु'हिति लुगिति भावः। हरिद्रुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः। तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः। छगलिनस्तु ढिनुग्वक्ष्यते। औलपिनः। वैशम्पायनान्तेवासिभ्य इति। `उदाह्यियते' इति शेषः। आलम्बिन इति। आलम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड\उfffद्ः, श्यामायनः, कठः, कलापी इति नव वैशम्पायशिष्याः। तत्र आलम्बिशब्दादध्येत्रणः प्रोक्ते णिनि। आलम्बिन्शब्दादध्येत्रणः `प्रोक्ताल्लु'गिति लुक्। आलम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, ताण्डिनः। अत्र `आपत्यस्ये'ति यलोपः। श्यामायनिनः। कठात्तु लुग्वक्ष्यते। कलापिनस्त्वण्वक्ष्यते। वैशम्पायनशिष्यः कलापी। तता च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात्तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम्।
1145 कलापिवेशंपायना। अणोऽपवादः छं तु परत्वाद्बाधते। कलाप्यन्तेवासिनश्चत्वारः। हरिद्रुः छगली तुम्बुरुः उलप इति। वैशंपायनान्तेवासिनस्तु नव आलम्बिः कलिङ्गः कमलः ऋचाभः आरुणिः ताण्ड\उfffद्ः श्यामायनः कठः कलापी-इति। हारिद्रविण इति। एवं तौम्बुरविणः, औलपिनः छगलिनस्तु ढिनुकं वक्ष्यति। आलम्बिन इति। एवं कालिङ्गिनः कामलिनः आर्चाभिनः आरुणिनः ताण्डिनः श्यामायनिनः। कठाल्लुकं वक्ष्यति, कलापिनश्चाणम्। याज्ञवस्क्याश्मरथ्यशब्दौ कण्वादी, तेन ताभ्यां यञन्ताभ्यां वृद्धाच्छो न भवतीत्यशयेनाह अणि आपत्यस्येतीति। `यज्ञवस्क्यादयो ह्रचिरकालाः' इति भारतादिषु व्यवहारः, स एवानुमृत सूत्रकृत।
TBD.