TBD.
प्रत्ययार्थविशेषणम् एतत्। तृतीयासमर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास् ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। ब्राह्मणेषु तावत् भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। कल्पेषु पैङ्गी कल्पः। आरुणपराजी। पुराणप्रोक्तेषु इति किम्? याज्ञवल्कानि ब्राह्मणानि। आश्मरथः कल्पः याज्ञवल्क्यादयो ऽचिरकाला इत्याख्यानेषु वार्ता। तथा व्यवहरति सूत्रकारः। तद्विषयता कस्मान् न भवति? प्रतिपदं ब्राह्मणेसु यः प्रत्ययस् तस्य तद्विषयता विधीयते णिनेः। अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु पाठादण्। न वा ऽयं योगश् छन्दो ऽधिकारम् अनुवर्तयति, तेन कल्पेष्वपि न भवति। पुराण इति निपातनात् तुडभावः। न वा अत्यन्तबाधैव, तेन पुरातनम् इत्यपि भवति।
TBD.
–
1464 पुराणप्रोक्तेषु। `तेन प्रोक्त'मिति, `णिनि'रिति चानुवर्तते। मन्त्रव्यतिरिक्तवेदभागा ब्राआहृणानि। बोधायनादिकल्पसूत्राणिकल्पाः। तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः। तदाह– तृतीयान्तादिति। यत्प्रोक्तमिति। सामान्याभिप्रायमेकवचनम्। प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राआहृणकल्पात्मकं चेदिति यावत्। `पुराणप्रोक्त'मित्येतद्व्याचष्टे–पुराणेनेति। ब्राआहृणे उदाहरति–भल्लु-भाल्लविन इति। भल्लु इति प्रकृतिनिर्देशः। भल्लुना पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थो प्रोक्तार्थणिनिः। भाल्लविन्शब्दादध्येत्रणो लुकि `भाल्लविन' इति रूपमिति भावः। ब्राआहृणे उदाहरणान्तरमाह–शाठ\उfffदायन शाठ\उfffदायनिन इति। शाठ\उfffदायनेति प्रकृतिनिर्देशः। शाठ\उfffदायनेन पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थे प्रोक्तार्थणिनि प्रत्यये शाठ\उfffदायनिन्शब्दाध्येत्रणो लुकि `शाठ\उfffदायनिन' इति रूपमित्यर्थः। कल्पे इति। `उदाह्यियते' इति शेषः। पिङ्ग- पैह्गी कल्प इति। पिङ्गेति प्रकृतिनिर्देशः। पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे णिनौ रूपम्।
–
TBD.