Table of Contents

<<4-3-102 —- 4-3-104>>

4-3-103 काश्यपकौशिकाभ्याम् ऋषिभ्यां णिनिः

प्रथमावृत्तिः

TBD.

काशिका

काश्यपकौशिकाभ्याम् ऋषिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। छस्य अपवादः। णकार उत्तरत्र वृद्ध्यर्थः। कल्पस्ताभ्यां प्रोक्तः इति स्मर्यते। तस्य अपि तद्विषयता भवत्येव। शौनकादिभ्यश् छन्दसि 4-3-106 इत्यत्र अनुवृत्तेः छन्दो ऽधिकारविहितानां च तत्र तद्विषयता इष्यते। काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः। कौशिकिनः। ऋषिभ्याम् इति किम्? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1462 काश्यपिन इति। काश्यपशब्दाण्णिनिः। णकार इत्। नकारादिकार उच्चारणार्थः। काश्यपिन्शब्दात् `प्रोक्ताल्लु'गित्यध्येतृप्रत्ययस्याऽणो लुगिति भावः। एवं कोशिकिनः। ऋषिभ्यां किम् ?। इदानींतनेन काश्यपेन प्रोक्तं काश्यपीयम्।

तत्त्वबोधिनी

1144 काश्यप। छस्यापवादः। णकार उत्तरत्र वृद्द्यर्थः। ननु `वृद्धिनिमित्तस्ये'ति पुंवद्भावनिषेधोऽत्र फलमस्तीति चेत्। अत्राहुः— णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामप्रवृत्तेः। प्रवृत्तावपि `जातेस्चे'ति सिद्धत्वात्, चरणत्वेन जातित्वादिति। ऋषिभ्यामिति किम्?। इदानींतमेन गोत्रकाश्यपेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम्।

Satishji's सूत्र-सूचिः

TBD.