TBD.
कापिशीशब्दात् ष्फक् प्रत्ययो भवति शैषिकः। षकारो ङीषर्थः। कापिशायनं मधु। कापिशायनी द्राक्षा। बाह्ल्युर्दिपर्दिभ्यश्च इति वक्तव्यम्। बाह्लायनी। और्दायनी। पार्दायनी।
TBD.
–
1300 कापिश्याष्ष्फक्। कापिष्याः ष्फक् इति छेधः। कापिशीशब्दात् ष्फक् स्यादित्यर्थः। कापिशी नाम देशविशेषः। कापिशायनी द्राक्षेति। षित्त्वान्ङीष्।
1042 कापिश्याः ष्फक्। कापिशीशब्दात्ष्फक्त्स्यात्। षित्त्वान्ङीष्। तदाह— कापिशायनीति।
TBD.