TBD.
रङ्कुशब्दादण् प्रत्ययो भवति, चकारात् ष्फक् च शैषिको ऽमनुस्ये ऽभिधेये। राङ्कवो गौः, राङ्कवायणो गौः। अमनुस्ये इति किम्? राङ्कवको मनुस्यः। ननु च रङ्कुशब्दः कच्छादिषु पठ्यते, तत्र च मनुष्यतस्थयोर् वुञ् 4-2-134 इति मनुस्ये परत्वाद् वुञैव भवितव्यं, कच्छादिपाठादमनुस्ये अणपि सिद्धः, किम् इह मनुस्यप्रतिषेधेन अण्ग्रहनेन च? तदुच्यते, न एव अयम् मनुस्यप्रतिषेधः, किं तर्हि, नञिवयक्तन्यायेन मनुस्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते। तेन राङ्कवः कम्बलः इति ष्फक् न भवति। विशेषविहितेन च ष्फका अणो बाधा मा भूतित्यण्ग्रहणम् अपि क्रियते।
TBD.
–
1301 रङ्कोरमनुष्येऽण् च। रङ्कोरण् स्याच्चात्ष्फक्। राङ्कवो गौरिति। रङ्कुर्नाम देशविशेषः। तत्र जातादिरित्यर्थः। राङ्कवको मनुष्य इति। अत्र मनुष्यत्वान्न ष्फगणौ। किन्तु `मनुष्यस्तत्स्थयो'रिति वक्ष्यमाणो वुञ्। अकादेशः। राङ्कवो मनुष्य इति त्वपपाठः।
1043 रङ्कोरमनुष्ये। रङ्कवो जनपदः, ततः `प्राग्दीव्यतोऽ'णित्यण्प्राप्तः। तद्बाधकत्वेन `अवृद्धादपी'ति वुञ्प्राप्तः, तमपि बाधित्वा `ओर्देशे'इति ठञप्राप्तः, तस्य तु `कोपधादण्'बाधकः, ततो।ञपि परत्वात्कच्छाद्यणि प्राप्तेऽनेन ष्फगणौ विधीयेते। कोपधत्वादेवाऽणि सिद्धे कच्छादिषु सङ्कुशब्दस्य पाठो `मनुष्यतत्स्थयोर्वुञ्'विधानार्थ इति कैयटः। अतएवाह—-राङ्कवको मनुष्य इति॥ क्वचित्तु `राङ्कव'इति पठ\उfffद्ते, स तु लेखकप्रमादः। स्यादेतत्— अमनुष्यग्रहणमिह व्यर्थम्, अपवादेन वुञा तत्र ष्फगणोर्बाधेनाऽमनुष्य एव पर्यवसानात्। अण्?ग्रहणमपि व्यर्थमेव, कच्छादित्वादेव तत्सिद्धेः। अत्राह
TBD.
कृत्–नायं प्रसज्यप्रतिषेधः किं तु पर्युदासः, तेन मनुष्यभिन्ने प्राणिन्येव ष्फग्विधीयत इति, राङ्क्रवः कम्बल इत्यत्र न ष्फक्। विशेष विहितेन ष्पका अणो बाधा मा भूदित्यण्ग्रहणं च क्रियत इति। भाष्ये तु अप्राणिन्यपि ष्फकमङ्गीकत्येदं द्वयमपि प्रत्याख्यातम्।
TBD.