Table of Contents

<<4-2-97 —- 4-2-99>>

4-2-98 दक्षिणापश्चात्पुरसस् त्यक्

प्रथमावृत्तिः

TBD.

काशिका

दक्षिणा पश्चात् पुरसित्येतेभ्यः त्यक् प्रययो भवति शैषिकः। दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1075 दाक्षिणात्यः. पाश्चात्यः. पौरस्त्यः..

बालमनोरमा

1299 दक्षिणापश्चात्। आजन्तमव्ययमिति। अव्ययसाहचर्यादाजन्तं गृह्रत इति भावः। दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

1041 दक्षैणापश्चात्। अव्ययमिति। साहचर्यादिति भावः। एवं च `दाक्षिणात्य'इत्यत्र `सर्वनाम्नो वृत्तिमात्रे'इति पुंवद्भावशङ्कैव नास्तीति बोध्यम्। पाश्चात्त्य इति। कथं तर्हि `पश्चात्तनैः कश्चन नुद्यमानः'इति। न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् ट\उfffदुट\उfffदुलौ बाधेते परत्वादिति वाच्यम्। `अग्रादिपश्चा'दिति डिमचा ट\उfffदुट\उfffदुलोर्बाधस्य दुर्वारत्वात्। सत्यम्। पश्चात्तन्वन्ति पश्चात्तना इति कथंचित्समाधेयम्।

Satishji's सूत्र-सूचिः

TBD.