Table of Contents

<<4-2-96 —- 4-2-98>>

4-2-97 नद्यादिभ्यो ढक्

प्रथमावृत्तिः

TBD.

काशिका

नदी इत्येवम् आदिभ्यो ढक् प्रत्ययो भवति। नादेयम्। माहेयम्। पूर्वनगरीशब्दो ऽत्र पठ्यते। पौर्वनगरेयम्। केचित् तु पूर्वनगिरी इति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति, पौरेयम्, वानेयम्, गैरेयम् इति। तदुभयम् अपि दर्शनं प्रमाणम्। नदी। मही। वाराणसी। श्रावस्ती। कौशाम्बी। नवकौशाम्बी। काशफरी। खादिरी। पूर्वनगरी। पावा। मावा। साल्वा। दार्वा। दाल्वा। वासेनकी। वडवाया वृषे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1074 नादेयम्. माहेयम्. वाराणसेयम्..

बालमनोरमा

1298 नद्यादिभ्यो ढक्। माहेयमिति। मही=भूमिः, तस्यां जातादीत्यर्थः। वाराणसेयमिति। वाराणस्यां जातादीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.