Table of Contents

<<4-2-91 —- 4-2-93>>

4-2-92 शेषे

प्रथमावृत्तिः

TBD.

काशिका

शेषे इत्यधिकारो ऽयम्। यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषे ऽर्थे ते वेदितव्याः। उपयुक्तादन्यः शेषः। अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्यो ऽन्यो ऽर्थः। शेषः। तस्य इदं विशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवनिति शेषाधिकारः क्रियते। किं च सर्वेषु जातादिषु घादयो यथा स्युः अनन्तरेण एवार्थादेशेन सम्बन्धित्वेन कृतार्थता मा ज्ञायि इति साकल्यार्थं शेषवचनम्। वक्ष्यति

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1293 अथ शैषिकप्रकरणं निरूप्यते। शेषे। अणादय इति। `प्राग्दीव्यतोऽणित्यादिसाधारणाः प्रतयया इत्यर्थः। वतुर्भिरिति। अ\उfffदाआदिभिरिति शेषः। चतुर्दश्यामिति। कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृशयन्ते इत्यागमः। लक्षणमिति।प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः। अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्येदिति भावः। अधिकारश्चेति। उत्तरसूत्रेष्वनुवृत्त्यर्थः, स्वरितत्वादिति भावः। अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति। नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणामपत्यादिचतुरथ्र्यन्तादन्यत्वस्य सिद्धत्वाच्छेषाधिकारो व्यर्थ इति वाच्यं, `तस्येद'मित्यादावपत्यादिचतुरथ्र्यन्तार्थानां ग्रहणाऽभावाय तदावश्यकत्वात्। नच प्रदर्शितेषु ग्रहणाद्यर्थेषु `तस्येद'मित्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यं, `शैषिकान्मतुवर्थीया'दित्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात्। इदंत्वेन भासमानमपत्याद्यपि न शेषः, `इदंविशेषा ह्रेते अपत्यं समूहो विकारो निवासः' इति भाष्यात्। प्रपञ्चितं चैतत् `तस्यापत्य'मित्यत्र `तस्येदमित्यपत्येऽपीत्यादिश्लोकवार्तिकव्याख्यावसरे।

तत्त्वबोधिनी

1038 शेषे। लक्षणं चेति। ग्रहणक्षुण्णादिष्वर्थेषूत्तरसूत्रानुपात्तेषु अणो विधायकमित्यर्थः। ननु लक्षणं तावव्द्यर्थम्, `तस्येद'मित्यनेन चाक्षुषादीनां, `संस्कृतं भक्षाः'इत्यनेन दार्षदादीनां सिद्धेः। तथा अधिकारोऽपि व्यर्थः। तथाहि— अधिकारस्यापत्यादिचतुरर्थीपर्यन्तेष्वर्थेषु धादीनां ट\उfffदुट\उfffदुलन्तानां निवृत्तिः, जाताद्यचर्थसाकल्यं वा प्रयोजनम्। तत्र निवृत्तिस्तावन्न प्रयोजनम्। आद्र्रकशालादीनामुत्करादिपाठेन इतः प्राचीनेष्र्थेषु घादयो न प्रवत्र्तन्ते'इति ज्ञापनात्। अन्यथा `वृद्धाच्छः'इत्येव सिद्धे तत्पाठस्य वैयथ्र्यप्रसङ्गात्। नाप्यर्थसाकल्यं प्रयोजनं, जाताधिकारात्प्राक्पाठसामथ्र्यादेब तल्लाभात्। यदि संनिहिते जातार्थ एव घादयः स्युः, तदुत्तरेषु भवाद्यर्थेषु `प्राग्दीव्यतः'इति विशिष्टावधिवरिच्छन्नेर्थेषु विधीयमाना अणादय एव स्युस्तदा जाताधिकारानन्तरमेव `प्रावृषष्ठ'बित्यादिभिः सह `राष्ट्रावारपारा'दित्यदयोऽपि पठ\उfffदेरन्। तस्माव्द्यर्थमिदं सूत्रमिति चेत्। अत्रोच्यते–`शैषिकात्सरूपः शैषिको ने'ति वक्ष्यमाणार्थस्य विषयलाभाय शेषाधिकार आवश्यकः। शैषिक प्रयुक्तकार्यविशेषं ध्वनयितुं क्रियमाणः शेषाधिकार एव `शैषिकान्मतुबर्थीया'दित्यादिश्र्लोकं ज्ञापयति। एष च श्र्लोकः सन्विधौ मतुब्विधौ च भाष्ये पठितः। इह तु सन्नन्ते पठित इति तत्रैव व्याख्यास्यते। अपत्यादिष्वर्थेषु घादीनां निवृत्त्यर्थमप्यधिकार आवश्यकः। न चोक्तज्ञापकेनैव तत्सिद्धिरिति वाच्यं, ज्ञापकस्य विशेषापेक्षत्वे दोषतादवस्थ्यात्। `आद्र्रकादिभ्यो यदि छः स्यात्तर्हि चतुरथ्र्यामेवे'ति नियमस्यापि संभवाच्च एवं स्थिते चाक्षुषमित्यादिषु गृह्रमाणत्वादिप्रकारकबोधनाय विधायकत्वमपि तस्य सुवचमिति दिक्। विग्रहीतादपीत्यादि। वचनमेवेदं, सूत्रे यथासङ्ख्यप्रवृत्त्यर्थं विशिष्टोच्चारणात्।

Satishji's सूत्र-सूचिः

TBD.