Table of Contents

<<4-2-88 —- 4-2-90>>

4-2-89 शिखाया वलच्

प्रथमावृत्तिः

TBD.

काशिका

शिखाशब्दात् वलच् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। शिखावलं नाम नगरम्। मतुप्प्रकरणे ऽपि शिखाया वलचं वक्ष्यति, तददेशार्थं वचनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1070

बालमनोरमा

1289 शिखाया वलच्। निर्वृत्ताद्यर्थं सूत्रं, देशे तन्नाम्नि अणो बाधनार्थं च। `दन्तशिखात्संज्ञाया'मिति पञ्चमे वक्ष्यमाणं तु अदेशे।ञपि शिखावल इति रूपार्थछम्।

तत्त्वबोधिनी

1036 शिखायाः निर्वृत्ताद्यर्थे देशे तन्नाम्नयणो बाधनार्थं चेदम्। `दन्तशिखात्संज्ञाया'मिति पञ्चमे वक्ष्यमाणं त्वदेशेऽपि`शिखाबल'इति रूपसिद्ध्यर्थम्।

Satishji's सूत्र-सूचिः

TBD.