Table of Contents

<<4-2-87 —- 4-2-89>>

4-2-88 नडशादाड् ड्वलच्

प्रथमावृत्तिः

TBD.

काशिका

नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। नड्वलम्। शाद्वलम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1069 नड्वलः. शाद्वलः..

बालमनोरमा

1288 नडशादाड्ड्वलच्। नड्वल इति। डित्त्वाट्टिलोपः। शाद्वल इति। शादा अस्मिन्सन्तीति विग्रहः। शादो–दन्त्योपधः। डोपध इत्यन्ये। `नडप्राये नड्वान्नड्वल इत्यपी'त्यमरः। `शाद्वलः शादहरिते' इति च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.