Table of Contents

<<4-2-86 —- 4-2-88>>

4-2-87 कुमुदनडवेतसेभ्यो ड्मतुप्

प्रथमावृत्तिः

TBD.

काशिका

कुमुद नड वेतस इत्येतेभ्यः शब्देभ्यः ड्मतुप् प्रत्ययो भवति चातुरर्थिकः। कुमुद्वान्। नड्वान्। वेतस्वान्। महिषाच् च इति वक्तव्यम्। महिष्मान् नाम देशः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1066

बालमनोरमा

1287 कुमुदनड। कुमुद नड वेतस-एतेभ्यो ड्मतुप्स्यादित्यर्थः। डकार उपौ च इतः। अयं मत्वर्थ एवेति `न पदान्ते ति' सूत्रभाष्यकैयटयोः स्थितम्। कुमुद्वानिति। कुमुदाः अस्मिन्सन्तीति विग्रहः। ङ्भतुपि डित्त्वाट्टिलोपः। नड्वानिति। नडा अस्मिन्सन्तीति विग्रहः। `कुमुद्वान्कुमुदप्राये' इस्यमरः। वेतस्वानिति। वेतसा अस्मिन्सन्तीति विग्रहः। आद्ययोरिति। कुमुद्वच्छब्दे, नड्वच्छब्दे च `झयः' इति मतुपो मस्य वकारः, वेतस्वच्छब्दे तु `मादुपधायाः' इति मस्य वकार इत्यर्थः। वस्तुतस्तु नड्वच्छब्देऽपि `झयः' इत्यस्याऽसिद्धत्वात् `मादुपधायाः' इत्येव न्याय्यं, `प्रकरणे प्रकरणमसिद्धं, नतु एकस्मिन्नेव प्रकरणे पूर्वयोगं प्रति परस्याऽसिद्धत्व'मित्यस्य `उपसर्गादसमासे' इति सूत्रभाष्ये दूषितत्वात्। `वेतस्वा'नित्यत्र रुत्वं तु न, अल्लोपस्य स्थानिवत्त्वात्। `न पदान्ते'ति निषेधस्तु न, पदे अन्त इति विगृह्र पदे परतश्चरमावयवे कर्तव्ये पदपदस्थाऽजादेशस्यैव तन्निषेधप्रवृत्तेर्भाष्येऽभ्युपगतत्वात्। पूर्वत्रासिद्धे न स्थानिव'दिति निषेधोऽपि न, पदे अन्त इति विगृह्र तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्यप्रामाण्येन पदचरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणादिति शब्देन्दुशेखरे विस्तरः। अस्मिन्सन्तीति विग्रहः। टित्त्वाट्टिलोपः। अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम्। `प्रत्यये भाषायां नित्य'मिति तु न, तस्य सवर्णे परतो विधेः। न हि षकारसवर्णोऽनुनासिकोऽस्ति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.