Table of Contents

<<4-2-83 —- 4-2-85>>

4-2-84 ठक्छौ च

प्रथमावृत्तिः

TBD.

काशिका

शर्कराशब्दात् ठक् छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ। यथासम्भवम् अर्थसम्बन्धः। शार्करिकम्। शर्करीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1284 ठक्छौ च। `शर्कराया इत्यनुवर्तते। तदाह–शर्कराया एतौ स्त इति। ठच्ककाविति। कुमुदादित्वाट्ठच्, वराहादित्वात्कगिति विवेकः। वाग्रहणेति। अन्यथा तत्र पाठसामथ्र्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयथ्र्यादिति भावः। शर्करेति। अणो लुपि युर्तवद्भावे रूपम्। शार्करमिति। अणि रूपम्। शार्करिकमिति। ठकि रूपम्। शर्करीयमिति। छे रूपम्। शर्करिकमिति। ठचि रूपम्। शार्करकमिति। ककि रूपम्। शर्कराः सन्त्यस्मिन्नित्यर्थः, शर्कराबिर्निर्वृत्तमपि वा।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.