Table of Contents

<<4-2-82 —- 4-2-84>>

4-2-83 शर्कराया वा

प्रथमावृत्तिः

TBD.

काशिका

शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब् भवति। वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसमर्थ्यात् प्रत्ययस्य पक्षे श्रवणं भविष्यति? एवं तर्ह्येतज् ज्ञापयति, शर्कराशब्दादौत्सर्गिको भवति, तस्य अयं विकल्पितो लुपिति। शर्करा। शार्करम्। गणपाठाच् च श्रवणम् उत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड् रूपाणि भवन्ति। शर्करा, शार्करम्, शर्करिकम्, शार्करकम् , शार्करिकम्, शर्करीयम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1283 शर्कराया वा। `लु'बित्यनुवर्तते। प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते। तदाह–अस्मादिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.