Table of Contents

<<4-2-6 —- 4-2-8>>

4-2-7 दृष्टं साम

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थाद् दृष्टं साम इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् दृष्टं साम चेत् तद् भवति। क्रुञ्चेन दृष्तं कौञ्चं साम। वासिष्ठम्। वैश्वामित्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1039 तेनेत्येव. वसिष्ठेन दृष्टं वासिष्ठं साम..

बालमनोरमा

1190 दृष्टं साम। तेनेत्येवेति। अनुवर्तत एवेत्यर्थः। तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः। \र्\नस्मिन्नर्थे इति। `दृष्टं साम' इत्यर्थे यः अण् स डिद्वेत्यर्थः। औशनमिति। अमि टिलोपपक्षे रूपम्।

तत्त्वबोधिनी

985 दृष्टं साम। तृतीयान्ताद्दृष्टमित्यर्थेऽणादयः स्युर्युद्दृष्टं त्चेचत्साम।\र्\नस्मिन्नर्थेऽण् डिद्वा वक्तव्यः। अस्मिन्नर्थे इति तथा च श्र्लोकवार्तिकं–`दृष्टे सामनि जाते वाप्यण् डिद् द्विर्वा विधीयते। तीयैदीकक् न विद्याया गोत्रादङ्कवदिष्यते। 'इति। जातेऽर्थे यो द्विरण् स च वा डिदित्यन्वयः। शतभिषजि जातः शातभिषः, शातभिषझः। इह हि `प्राग्दीव्यतः'इति प्राप्तोऽण् कालाट्ठञा बाधितः, स च `सन्धिवेलादि'सूत्रेण प्रतिप्रसूयते इत्ययं द्विरुक्तोऽम्। तीयादिति। तीयादिकक् स्वार्थे भवतीत्यर्थः। द्वैतीयीकः। तार्तीयीकः। न विद्याया इति। विद्यावाचकात्तीयान्तादीकङ्न भवतीत्यर्थः। द्वितीया विद्या। गोत्रादङ्कवदिति। गोत्रप्रत्ययान्तादङ्के यः प्रत्ययः स दृष्टे सामन्यपि भवति। औपगवेन दृष्टपगवकम्। इह `गोत्रचरणाद्वु'ञिति वुञ्।

Satishji's सूत्र-सूचिः

TBD.