Table of Contents

<<4-2-77 —- 4-2-79>>

4-2-78 रोणी

प्रथमावृत्तिः

TBD.

काशिका

रोणीशब्दादन् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। कूपलक्षणस्य अञो ऽपवादः। रोणी इति को ऽयं निर्देशो, यावता प्रत्ययविधौ पञ्चमी युक्ता? सर्वावस्थप्रतिपत्त्यर्थम् एवम् उच्यते। रोणीशब्दः सर्ववस्थो ऽण्प्रत्ययम् उत्पादयति, केवलस् तदन्तश्च। रौणः। आजकरोणः। सैहिकरोणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1271 रोणी। लुप्तपञ्चमीकमिदम्। तदन्तादिति। `येन विधि' रिति सूत्रस्थभाष्यादिह प्रत्ययविधावपि तदन्तविधिरिति भावः। रौण इति। रोण्या निर्वृत्तः कूप इत्यर्थः। आजकरौण इति। अजकरोण्या निर्वृत्त इत्यर्थः। अणि `यस्ये'ति ईकारलोपः।

तत्त्वबोधिनी

1028 रोणी। रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः। तथाच फलितमाह–रोणीशब्दादिति। पञ्चम्याः सौत्रो लुगित्यन्ये। तदन्तादिति। `येन विधि'रिति सूत्रे भाष्यस्थविसेषवचनात्, विशेषणविशेष्ययोः कामचारमाश्रित्य `समासप्रत्ययविधौ प्रतिषेधः'इत्यस्य प्रत्याख्यानाद्वा तदन्तविरिति भावः।

Satishji's सूत्र-सूचिः

TBD.