Table of Contents

<<4-2-78 —- 4-2-80>>

4-2-79 कौपधाच् च

प्रथमावृत्तिः

TBD.

काशिका

ककारौपधात् च प्रातिपदिकातन् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवम् अर्थसम्बन्धः। कूपलक्षणस्य उवर्नलक्षणस्य च अञो ऽपवादः। कार्णच्छिद्रिकः कूपः। कार्णवेष्टकः। कृकवाकुना निर्वृत्तं कार्कवाकवम्। त्रैशङ्कवम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1272 कोपधाच्च। कार्णच्छिद्रक इति। कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः। कार्कवाकवमिति। कृकवाकुना निर्वृत्तः कूप इत्यर्थः। ओर्गुणः। आदिवृद्धौ रपरत्वम्। त्रैशङ्कवमिति। त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.