Table of Contents

<<4-2-76 —- 4-2-78>>

4-2-77 सुवास्त्वादिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

सुबास्तु इत्येवम् आदिभ्यः अण् प्रत्ययो भवति चातुरर्थिकः। अञ उवर्णान्तलक्षणस्य कूपलक्षणस्य च अपवादः। सुवास्तोः अदूरभवं नगरं सौवास्तवम्। वार्णवम्। अण्ग्रहणं नद्यां मतुपो बाधनार्थम्। सौवास्तवी नदी। सुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्दिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्ङ्कधू मती। गोह्य। अहिसक्थ। वृत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1270 सुवास्त्वादिभ्योऽण्। अञ इति। `ओर'ञित्यस्यापवाद इत्यर्थः। सौवास्तवमिति। अणि ओर्गुणः। वार्णवमिति। वर्णोरदूरभवमित्यर्थः। ननु `ओर'ञित्येव सिद्धे पुनर्विधिसामथ्र्यादेव तदननुवृत्तौ अणि सिद्धे पुनरण्ग्रहणं व्यर्थमित्यत आह– अण्ग्रहणमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.