Table of Contents

<<4-2-75 —- 4-2-77>>

4-2-76 स्त्रीषु सौवीरसाल्वप्राक्षु

प्रथमावृत्तिः

TBD.

काशिका

देशे तन्नम्नि इत्यस्य विशेषनं सौवीरादयः, स्त्रीत्वं च। ङ्याप्प्रातिपदिकातञ् प्रत्ययो भवति चातुरर्थिकः, अणो ऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि। सौवीरे तावत् दत्तमित्रेण निर्वृत्ता नगरी दात्तामित्री। साल्वे विधूमाग्निना निर्वृत्ता वैधूमाग्नी। प्राचि खल्वपि ककन्देन निर्वृत्ता काकन्दी। माकन्दी। मणिचरी। जारुषी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1269 स्त्रीषु सौवीर। सौवीरे इति। `उदाहरणं वक्ष्यते' इति शेषः। दात्तामित्री नगरीति। `टिड्ढे'ति ङीप्। साल्वे इति। `उदाह्यियते' इति शेषः। वैधूमाग्नीति। विधामाग्निना निर्वृत्तेत्यर्थः। अञि ङीप्। प्राचीति। प्राचि देशे उदाह्यियत इत्यर्थः। माकन्दीति। माकन्देन निर्वृत्तेत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.