Table of Contents

<<4-2-5 —- 4-2-7>>

4-2-6 द्वन्वाच् छः

प्रथमावृत्तिः

TBD.

काशिका

नक्षत्रद्वन्द्वात् तृतीयासमर्थाद् युक्ते काले छः प्रत्ययो भवति, विशेषे च अविशेषे च। राधानुराधीया रात्रिः। तिष्यपुनर्वसवीयमहः। अविशेषे राधानुराधीयम्। अद्य तिष्यपुनर्वसवीयम्। लुपं परत्वाद् बाधते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1189 द्वन्द्वाच्छः। तिष्यपुनर्वसवीयमिति। तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः। छस्य ईयादेशे ओर्गुणः। राधानुराधीयेति। रादेति विशाखानक्षत्रमुच्यते। राधा च अनूराधाश्च राधानूराधाः, तद्याक्ता रात्रिरित्यर्थः।

तत्त्वबोधिनी

984 द्वन्द्वाच्छः। विशेषे उदाहरणमाह–तिष्येत्यादि। अविशेषे तूदाहर्तव्यम् `अद्यराधानुराधीय'मिति। न चात्र `लुबविशेषे'इति अम इव छस्यापि लुप्स्यादिति वाच्यं, मध्येऽपवादन्यायरीत्या पूर्वोपस्थितस्याऽण एव तत्प्रवृत्तेः। यत्तु `लुपं परत्वाद्बाधते छ'इति वृत्तिकृतोक्तं, तन्न, द्वयोर्युपत्प्रप्त्यभावा।

Satishji's सूत्र-सूचिः

TBD.