Table of Contents

<<4-2-67 —- 4-2-69>>

4-2-68 तेन निर्वृत्तम्

प्रथमावृत्तिः

TBD.

काशिका

तेन इति तृतीयासमर्थात् निर्वृत्तम् इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। देशे तन्नम्नि इति चतुर्ष्वपि योगेषु सम्बध्यते। सहस्रेण निर्वृत्ता साहस्री परिखा। कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी। हेतौ कर्तरि च यथायोगं तृतीया समर्थविभक्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1060 कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी..

बालमनोरमा

1261 तेन निर्वृत्तं। देशे तन्नाम्नीत्यनुवर्तते। तेन निर्वृत्तमित्यर्थे तृतीयान्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः।

तत्त्वबोधिनी

1025 तेन निर्बृत्तम्। अन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः।

Satishji's सूत्र-सूचिः

TBD.