Table of Contents

<<4-2-66 —- 4-2-68>>

4-2-67 तदस्मिन्नस्ति इति देशे तन्नाम्नि

प्रथमावृत्तिः

TBD.

काशिका

ततिति प्रथमा समर्थविभक्तिः। अस्मिनिति प्रत्ययार्थः। अस्ति ईत् प्रकृत्यर्थविशेषणम्। इतिकरणो विवक्षार्थः। देशे तन्नम्नि इति प्रत्ययार्थविशेषणम्। ततिति रथमासमर्थादस्मिनिति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थम् अस्ति चेत् तद् भवति यदस्मिनिति निर्दिष्टं देशश्चेत् स तन्नामा भवति, प्रत्ययान्तनामा, इतिकरणस् ततश्चेद् विवक्षा। उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरः। बाल्बजः। पार्वतः। मत्वर्थीयापवादो योगः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1059 उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः..

बालमनोरमा

1260 अथ चातुरर्थिकान्प्रत्यायन्वक्तुमुपक्रमते–तदस्मिन्नस्तीति। तदस्मिन्नस्तीत्यर्थे प्रथमोच्चारितात्प्रथमान्तादणादयः स्युः। प्रत्ययान्तेन प्रकृतिनामके देसे गम्ये इत्यर्थः। प्रसिद्धदेशग्रहणार्थ इतिशब्दः। मतुपोऽपवादः।

तत्त्वबोधिनी

1024 तदस्मिन्। अस्तीत्युपाधिकात्प्रथमान्तादस्मिन्निति सप्तम्यन्तार्थे यथाविहितं प्रत्ययः स्यात्प्रत्ययान्तनामा देशश्चेत्। तत्प्रत्ययान्तं नाम यस्येति बहुव्रीहिः। मतुपोऽयमपवादः। `इति शब्दस्तु सकल लोकप्रसिद्धे देशे यथा स्यात्, न त्वाधुनिकसङ्केतेऽपीत्येतदर्थः। उत्तरसूत्रयेऽपि `देशे तन्नाम्नी'त्यनुवर्तते।

Satishji's सूत्र-सूचिः

TBD.