TBD.
प्रोक्तग्रहणम् अनुवर्तते। छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति। अध्येतृवेदितृरत्ययविषयाणि। अनन्यभावो विषयार्थः। तेन स्वातन्त्र्यम् उपाध्यान्तरयोगो वक्यं च निवर्तते। कठेन प्रोक्तम् अधीयते कठाः। मौदाः। पैप्पलादाः। आर्चाभिनः। वाजसनेयिनः। ब्राहमणानि खल्वपि ताण्डिनः। भाल्ल्लविनः। शाट्यायनिनः। ऐतरेयिणः। ब्राह्मणग्रहणं किं, यावता छन्द एव तद्? ब्राह्मणविशेषप्रतिपत्त्यर्थम्। इह तद्विषयता मा भूत्, याज्ञवल्क्येन प्रोक्तानि ब्राह्मन्णानि याज्ञवल्क्यानि। सौलभानि। चकारो ऽनुक्तसमुच्चयार्थः। कल्पे काश्यपिनः। कौशिकिनः। सूत्रे पाराशरिणो भिक्षवः। शैलालिनो नटाः। कर्मन्दिनः। कृशाश्विनः। छन्दोब्राह्मणानि इति किम्? पाणिनीयं व्याकरणम्। पैङ्गी कल्पः।
TBD.
–
376 छन्दोब्राआहृणानि। छन्दांसि-मन्त्राः, ब्राआहृणानि-विधिवाक्यानि। तेषां द्वन्द्वः। वेद इति यावत्, `मन्त्रब्राआहृणोर्वेदनामधेय'मिति स्मरणात्। `प्रोक्ताल्लु'गित्यतः प्रोक्तादित्यनुवर्तते। प्रथमाबहुवचनेन विपरिणम्यते। प्रोक्तप्रत्ययान्तानीति लभ्यते। तदाह–छन्दांसीत्यादिना। तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः। तैर्विषयः=अविनाभावो येषां तान– तद्विषयाणि। `षिञ्बन्धने'। विशिष्य सयो-बन्धः-विषयः। अविनाऽभाव इति यावत्। अध्येतृवेदितृप्रत्ययसंयुक्तान्येव स्युरित्यर्थः। फलितमाह–अध्येतृवेदितृप्रत्ययं विनेति। पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम्। पाणिनीयास्तदध्येतारो वेदितारो वेति वदध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम्। कठेनेति। कठेन प्रोक्तमधीयते इत्यर्थे `कठा' इत्युदाहरणमिति भावः। तदुपपादयति–वैशम्पायनेति। कठेन प्रोक्तमित्यर्थे `तेन प्रोक्त'मित्यणपवादः `वैशम्पायनान्तेवासिभ्यश्च' इति णिनिरित्यर्थः। तस्येति। णिनेः `कठचरकाल्लु'गित्यनेन लुगित्यर्थः। एवंच कठेन प्रोक्तो वेदभागः कठ इति स्थितम्। ततोऽणिति। तस्माल्लुप्तप्रोक्तप्रत्ययकात्कठशब्दात्तदधीते इति अणित्यर्थः। तस्य प्रोक्ताल्लुगिति। तस्य=अध्येत्रणः, `प्रोक्ताल्लुक्' इति लुगित्यर्थः। तथा च कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन विना केवलप्रोक्तप्रत्ययान्तस्येति भावः।
याम् रक्ताद्यर्थक प्रकरणम्। उविकरणधातवो निरूप्यन्ते। तनुधातुरुदित्। `उदितो वे'ति प्रयोजनम्। तनादिकृञ्भ्य उः। कत्र्रर्थे सार्वधातुके तनादिभ्यः कृञश्च उप्रत्ययः स्यात्स्वार्थेइत्र्थः। शपोऽपवादः। तनोतीति। उप्रत्ययस्य तिपमाश्रित्य गुणः। तसादौ तु ङित्त्वान्न गुणः। तनुतः। झोऽन्तादेशे कृते `इको यणची'ति यण्। तन्वन्ति। तनोषि तनुथः। तनुथ। तनोमि। `लोपश्चाऽस्यान्यतरस्या'मित्यकारलोपविकल्पमभिप्रेत्याह – तन्वः तनुव इति। तङ्याह - तनुते इति। तन्वाते तन्वते।तनुषे तन्वाथेतनुध्वे। तन्वे तनुवहे - तन्वहे तनुमहे - तन्हे। ततानेति। तेनतुः। तेनिथ। तेन। तेनिव। तङ्याह - तेने इति। तेनात् तेनिरे। तेनिषे तेनाथे तेनिध्वे। तेने तेनिवहे तेनिमहे।तनिता। तनिष्यति। तनिष्यते। तनोतु- तनुतात् तनुताम् तन्वतु। `उतश्चप्रत्यया'दिति हेर्लुकं मत्वाह – तन्विति। तनुतात् तनुतम् तनुत। तनवानि। तनवाव तनवाम। अतनोत् अतनुताम् अतन्वन्। अतनोः। अतनम्, अतन्व- अतनुव। तनुयात्। तन्वीत। तनिषीष्ट। `अतो हलादे'रिति वृद्धिविकल्पं मत्वाऽऽह - अतनीत् अतानीदिति। अतनिष्टाम् अतनिषुः। अतनीः अतनिष्टम् अतनिष्ट। अतनिषम् अतनिष्व अतनिष्म। वृद्धिपक्षे अतानिष्टामित्यादि। अतनिष्यत्। लुङस्तङि प्रतमैकवचने, मध्यमपुरुषैकवचने च विशेषमाह —
326 छन्दोब्राआहृणानि। इह मण्डूक प्लुत्यानुवृत्तं `प्रोक्ता'दिति पञ्चम्यन्तं जसन्तत्वेन विपरिणम्यते, `छन्दोब्राआहृणानी'त्यनेन सामानाधिकरण्यात्। प्रोक्तशब्दश्च प्रोक्तार्थके प्रत्यये लाक्षणिक इत्याशयेनाह— प्रोक्तप्रत्ययान्तानीति। तद्विषयाणीति। तच्छब्देन अध्येतृवेदितृप्रत्ययः परामृश्यते। विषयशब्दस्त्वलिहानन्यभाववाची न तु देशवाचीत्यभिप्रेत्येह—प्रत्ययं विना न प्रयोज्यनीत्यर्थ इति। पाणिनीयं पाणिनीया इतिवदनियमेन प्रयोगे प्राप्ते नियमार्थमेतदिति भावः। छन्दोग्रहणादेव सिद्धे ब्राआहृणग्रहणं चिरन्तनप्रोक्तब्राआहृणानामेव तद्विषयत्वार्थम्। तेनेह न—याज्ञवल्क्यादयो हि पाणिन्यपेक्षया नूतना इति वृत्तिकृतां व्यवहारः। चकारोऽनुक्तसमुच्चयार्थः। तेन काश्यपिनः कौसिकिन इत्यत्र कल्पेऽपि तद्विषयत्वं सिद्धम्। `काश्यपकौसिकाभ्यामृषिभ्या'मिति प्रोक्ते णिनिः, अध्येत्रणो लुक्। छन्दोब्राआहृणानीति किम्?। पाणिनीयं व्याकरणम्। \र्\निति तत्त्वबोधिन्याम् रक्ताद्यर्थकाः।
TBD.