Table of Contents

<<4-2-64 —- 4-2-66>>

4-2-65 सूत्राच् च क उपधात्

प्रथमावृत्तिः

TBD.

काशिका

सूत्रवाचिनः ककार उपधादुपन्नस्य प्रत्ययस्य लुग् भवति। अप्रोक्तार्थ आरम्भः। पाणिनीयम् अष्टकं सूत्रम्। तदधीयते अष्टकाः पाणिनीयाः। दशका वैयघ्रपदीयाः। त्रिकाः काशकृत्स्नाः। सङ्ख्याप्रकृतेरिति वक्तव्यम्। इह मा भूत्, महावार्त्तिकं सूत्रम् अधीते माहावार्त्तिकः। कालापकम् अधीते कालापकः। कोपधातिति किम्? चतुष्टयम् अधीते चातुष्टयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1258 सूत्राच्च को। ककारोपधादित्यनन्तरं `परस्ये'ति शेषः। ननु `प्रोक्ताल्लु'गित्येव सिद्धे किमर्थमिदमित्यत आह–अप्रोक्तार्थ आरम्भ इति। अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः। अष्टकमिति। `तदस्य परिमाण'मित्यधिकारे `सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति `सङ्ख्याया अतिशदन्तायाः क'न्निति च सूत्ररूपेऽर्थे कन्। अष्टका इति। अष्टकशब्दाध्येतृवेदितृप्रत्ययस्य ?नेन लुक्, कोपधात्सूत्रवाचिनः परत्वादिति भावः। कोपधा'दितिलुक्सङ्ख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः। माहावार्तिक इति। महावार्तिकं नाम सूत्रम्। तदधीते वेत्ति वा माहावार्तिकः। अत्र अणो न लुक्।

तत्त्वबोधिनी

1022 अष्टकमिति। `सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु'इति `सङ्ख्याया अतिशदन्तायाः कन्'। सङ्ख्याप्रकृतिकप्रत्ययन्तादित्य्रथः। कालापक इति। कलापि न्शब्दात्प्रोक्तार्थेऽण्। `सब्राहृचारी'त्युपसङ्ख्यानाट्टिलोपः। ततोऽद्येतर्यण्। तस्य `प्रोक्ताल्लु गिति लुक्। कालापानामाम्नाय इत्य्रथे `गोत्रचरणाद्वुञ्'। ततोऽध्यतृवेदित्रणो न लुक्। स्वरे स्त्रियां च विशेषः।

Satishji's सूत्र-सूचिः

TBD.