Table of Contents

<<4-2-61 —- 4-2-63>>

4-2-62 अनुब्राह्मणादिनिः

प्रथमावृत्तिः

TBD.

काशिका

अनुब्राह्मणशब्दातिनिः प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणो ऽपवादः। ब्राह्मणसदृशो ऽयं ग्रन्थः अनुब्राह्मणम्। तदधीते अनुब्राह्मणी। अनुब्राह्मणिनौ, अनुब्राह्मणिनः। मत्त्वर्थेन अत इनिठनौ 5-2-115 इति इनिना सिद्धम्? तत्र एतस्माट् ठन्नपि प्राप्नोति। अनभिधानान् न भविष्यति? अणो निवृत्त्यर्थं तर्हि वचनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1253 अनुब्राआहृणादिनिः। सेषपूरणेन सूत्रं व्याचष्टे–तदधीते तद्वेदेत्यर्थे इति। इनिप्रत्यये नकारादिकार उच्चारणार्थः। तथा च नकारस्योपदेशेऽन्त्यत्वाऽभावान्नेत्संज्ञा। ननु `अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह–अण्बाधनार्थमिति। भाष्ये तु प्रत्याख्यातमेवेदम्।

तत्त्वबोधिनी

1018 अण्बाधनार्थमिति। भाष्ये तु प्रत्याख्यातमेवेदं सूत्रं, तद्रीत्या त्वणिष्यत इति, अनभिधानान्नेति वा बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.