Table of Contents

<<4-2-60 —- 4-2-62>>

4-2-61 क्रमादिभ्यो वुन्

प्रथमावृत्तिः

TBD.

काशिका

क्रम इत्येवम् आदिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणो ऽपवादः। क्रमकः। पदकः। क्रम। पद। शिक्षा। मीमंसा। सामन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1058

बालमनोरमा

1252 क्रमादिभ्यो वुन्। `तदधीते तद्वेद इत्यर्थे' इति शेषः। क्रमक इति। क्रममधीते वेत्ति वेत्यर्थः। क्रमादिगणं पठति-क्रमेत्यादि। क्रमादिरिति। अयं क्रमादिगण इत्यर्थः। `पदकः'`मीमांसकः' इत्युदाहरणानि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.