TBD.
समूहः इति निवृ\उ0304त्तम्। षष्ठी समर्थविभक्तिरनुवर्तते। तस्य इति षष्ठीसमर्थाद् विषयः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यो ऽसौ विषयः देशश्चेत् स भवति। विषयशब्दो बह्वर्थः। क्वचिद् ग्रामसमुदाये वर्तते, विषयो लब्धः इति। क्वचिदिन्द्रियग्राह्ये, चक्षुर् विषयो रूपम् इति। क्वचिदत्यन्तशीलिते ज्ञेये, देवदत्तस्य विषयो ऽनुवाकः इति। क्वाचिदन्यत्र अभावे, मत्स्यानाम् विषयो जलम् इति। तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम्। शिबीनां विषयो देशः शैबः। औष्ट्रः। देशे इति किम्? देवदत्तस्य विषयो ऽनुवाकः।
TBD.
–
1242 विषयो देशे। समूह इति निवृत्तं। तस्येत्यनुवर्तते। तस्य विषय इत्यर्थे प्रथमोच्चारितात्षष्ठ\उfffद्न्तात्प्रत्ययाः स्युरिति लभ्यते। तदाह– षष्ठ\उfffद्न्तादिति। `विषय'शब्दं व्याचष्टे–अत्यन्तपरिशीलितेऽर्थे इति। `देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः। तर्हि तत्रातिव्याप्तिः स्यादित्यत आह–स चेदिति। सः= अत्यन्तपरिशीलितोऽर्थो देशश्चेदित्यर्थः। एवंच अतन्यतपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलितम्। विषयशब्दो ह्रयं क्वचिद्ग्रामसमूहात्मके जनपदे वर्तते। तद्यथा–`सामन्तस्य राज्ञो विषयोऽनेन लब्ध' इति। क्वचिदिन्द्रियग्राह्रे वर्तते। तद्यथा `चक्षुर्विषयो रूप'मिति। क्वचिदन्यत्राऽवृत्तौ वर्तते। यथा `मत्स्यानां विषयो जल'मिति। अन्यत्र नास्तीति गम्यते। प्रकृते तु `देवदत्तविषयोऽनुवाक इत्यर्थः। अत्र देशस्यानवगमान्न प्रत्यय इति भावः। विषय इति किम् ?। देवदत्तस्य कदाचिद्गन्तव्यो मार्गः। न च `देवदत्तस्य गृह'मित्यत्र अत्यन्तपरिचितदेशत्वात्प्रत्ययः स्यादिति वाच्यं, जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात्।
1009 विषयो देशे। `तस्ये'त्यनुवर्तत इत्याह–षष्ट\उfffद्न्तादिति। विषयशब्दार्थमाह—अत्यन्तेति। भौरिक्या। आभ्या गणाभ्यां यथासङ्ख्यमेतौ प्रत्ययौ स्तः।
TBD.