Table of Contents

<<4-2-52 —- 4-2-54>>

4-2-53 राजन्यादिभ्यो वुञ्

प्रथमावृत्तिः

TBD.

काशिका

राजन्यादिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति विषयो देशे इत्येतस्मिन्नर्थे। अणो ऽपवादः। राजन्यानां विषयो देशः राजन्यकः। दैवयानकः। आकृतिगणश्च अयम्। मालवानां विषयो देशः मालवकः। वैराटकः। त्रैगर्तकः। राजन्य। देवयान। शालङ्कायन। जालन्धरायण। आत्मकामेय। अम्बरीषपुत्र। वसाति। बैल्ववन। शैलूष। उदुम्बर। बैल्वत। आर्जुनायन। संप्रिय। दाक्षि। ऊर्णनाभ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1243 राजन्यादिभ्यो वुञ्। तस्य विषयो देश इत्यर्थे राजन्यादिभ्यः षष्ठ\उfffद्न्तेभ्यो वुञ् स्यादित्यर्थः। अणोऽपवादः। राजन्यक इति। अत्र राजन्यानां विशेषो देश इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.