Table of Contents

<<4-2-49 —- 4-2-51>>

4-2-50 खलगोरथात्

प्रथमावृत्तिः

TBD.

काशिका

खलगोरथशब्देभ्यः यः प्रत्यय भवत् तस्य समूहः इत्येतस्मिन् विषये। खलानां समूहः खल्या। गव्या। रथ्या। पाशादिष्वपाठः उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1240 खलगोरथात्। समूह इत्येव। खल, गो, रथ एभ्यो यः स्यादित्यर्थः। खल्या गव्य रथ्येति। खलानां गवां रथानां च समूह इति विग्रहः। यद्यपि पाशिद्ष्वेव एषां पाठो युक्तस्तथापि उत्तरसूत्रे एषामेवानुवृत्त्यर्थं पृथक् पाठः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.