Table of Contents

<<4-2-46 —- 4-2-48>>

4-2-47 अचित्तहस्तिधेनोष् ठक्

प्रथमावृत्तिः

TBD.

काशिका

अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अणञोरपवादः। अपूपानां समूहः आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्। धेनोरनञ इति वक्तव्यम्। आधेनवम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1054

बालमनोरमा

1237 अचित्तहस्ति। अचित्ताः=अप्राणिनः, तद्वाचिभ्यः, हस्तिशब्दाद्धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः। साक्तुकमिति। सक्तूनां समूह इति विग्रहः। `इसुसुक्तान्तात्कः' इत्युकः परत्वाट्ठस्य कः आदिवृद्धिः। हास्तिकमिति। हस्तिनां समूह इति विग्रहः। ठक् इकः। टिलोपः। आदिवृद्धिः। धैनुकमिति। धेनूनां समूह इति विग्रहः। उकः परत्वाट्ठस्य कः। आदिवृद्धिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.