Table of Contents

<<4-2-45 —- 4-2-47>>

4-2-46 चरणेभ्यो धर्मवत्

प्रथमावृत्तिः

TBD.

काशिका

चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत् प्रत्यया भवन्ति। गोत्रचरणाद् वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चरणाद् धर्माम्नाययोः इति, तेन धर्मवतित्यतिदेशः क्रियते। वतिः सर्वसादृश्यार्थः। कठानां धर्मः काठकम्। कालापकम्। छन्दोग्यम्। औक्थिक्यम्। आथर्वणम्। तथा समूहे ऽपि काठकम्। कालापकम्। छन्दोग्यम्। औक्थिक्यम्। आथर्वणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1236 चरणेभ्यो धर्मवत्। चरणाः=शाखाध्येतारः। धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः। काठकमिति। कठानां समूह इति विग्रहः। `गोत्रचरणाद्वुञ्' इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति। छान्दोग्यमिति। छन्दोगाः-सामशाखिनः, तेषां समूह इति विग्रहः। `छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः' इति धर्मे वक्ष्यमाणो ञ्यः समूहेऽपि भवति।

तत्त्वबोधिनी

1008 चरणेभ्यः। यस्याः प्रकृतेर्यः प्रत्ययो धर्मे वक्ष्यते, स तस्याः प्रकृतेः समूहेऽपि स्यादित्य्रथः। वुञादयो हि चरणेभ्यो वक्ष्यन्ते। तत्र `चरणाद्धर्माम्नाययो'रिति तु वार्तिकम्। तदप्यनेनैवातिदेशसूत्रेण ज्ञाप्यते। काठकमित्यादि। गोत्रचरणाद्वुञ्। छान्दोग्यमिति। `छन्दोगौक्थिके'तिञ्यः। यच्छाविति। यथासङ्ख्यं स्तः। ठगणाविति। केशशब्दादचित्तत्वेन ठक्।

Satishji's सूत्र-सूचिः

TBD.