TBD.
तृतीयासमर्थविभक्तिः अनुवर्तते। तेन इति तृतीयासमर्थाद् नक्षत्रविशेषवाचिनः शब्दाद् युक्तः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। यो ऽसौ युक्तः। कालश्चेत् स भवति। कथं पुनर् नक्षत्रेण पुष्यादिना कालो युज्यते? पुष्यादिसमीपस्थे चन्द्रमसि वर्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति पुष्येण युक्तः कालः। पुष्यसमीपस्थेन चन्द्रमसा युक्तः इत्यर्थः। पौषी रात्रिः। पौषमहः। माघी रात्रिः। माघमहः। नक्षत्रेण इति किम्? चन्द्रमसा युक्ता रात्रिः। कालः इति किम्? पुष्येण युक्तश्चन्द्रमाः।
TBD.
1037 अण् स्यात्. (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्). पुष्येण युक्तं पौषमहः..
1186 नक्षत्रेण। अस्मिन्नर्थे प्रथमोच्चारितान्नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः। नक्षत्रयुक्तश्चन्द्रमा- नक्षत्रशब्देन विवक्षितः। पुष्येण युक्तमिति। पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः। पौषमहरिति। पुष्यशब्दादणि `तिष्यपुष्ययोर्नक्षत्राऽणि यलोपः' इति यलोपः। पौषी रात्रिरिति। पुष्ययुक्तचन्द्रमसा युक्तेत्यर्थः। अणि यलोपे `टिड्ढे'ति ङीप्। नक्षत्रेणेति किम् ?। चन्द्रेण युक्ता रात्रिः। कालः किम् ?। पुष्येणयुक्तश्चन्द्रमाः।
982 नक्षत्रेण। नक्षत्रवाचकाः शब्दा वृत्तिविषये तद्युक्तं चन्द्रमसमभिदधानाः प्रत्ययं लभन्ते। पुष्येणेति। पुष्यसमीपस्थेन चन्द्रमसेत्यर्थः। एवं च पौषमह इत्यादिव्यवहारः सङ्गच्छते। सर्वेषामप्यह्नां पुष्ययोगसत्त्वेऽपि तत्समीपस्थचन्द्रमसा योगस्याऽसर्वत्रिकत्वात्। नक्षत्रेणेति किम्?। चन्द्रेण युक्ता रात्रिः। कालः किम्?। पुष्येण युक्तश्चन्द्रः।
TBD.