Table of Contents

<<4-2-26 —- 4-2-28>>

4-2-27 अपोनप्त्रपांनप्तृभ्यां घः

प्रथमावृत्तिः

TBD.

काशिका

अपोनप्तृ अपांनप्तृ इत्येताभ्यां घः प्रत्ययो भवति सा ऽस्य देवता इत्यस्मिन् विषये। अणो ऽपवादः। अपोनप्त्रियं हविः, अपांनप्त्रियम्। अपोनपादपांनपादिति देवताया नामधेये एते। तयोस् तु पत्ययसन्नियोगेन रूपम् इदं निपत्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1210 अपोनप्त्रपांनपतृभ्यां घः। प्रत्ययसंनियोगेनेति। घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तृभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः। अत एवेति। घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः। अत्र घप्रत्ययाऽभावान्नोक्तादेशाविति भावः।

तत्त्वबोधिनी

997 उक्तं रुपमिति। `नपात्'इत्यस्य `नृप्त'इति रूपमित्यर्थः। शतं रुद्रा इति। शतशब्दोऽनन्तवचनः। सौमिति। `हलस्तद्धितस्ये'ति यलोपः।

Satishji's सूत्र-सूचिः

TBD.