Table of Contents

<<4-2-27 —- 4-2-29>>

4-2-28 छ च

प्रथमावृत्तिः

TBD.

काशिका

अपोनप्तृ अपांनप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सा अस्य देवता इति यस्मिन् विषये। अणो ऽपवादः। अपोनप्त्रीयं हविः, अपांनप्त्रीयम्। योगविभागः सङ्ख्यातानुदेशपरिहारार्थः। छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम्। पैङ्गाक्षीपुत्रीयम्। तार्णबिन्दवीयम्। शतरुद्राच्छश्च घश्च। शतरुद्रीयम्, शतरुद्रियम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1211 छ च। उक्तविषये छोऽपीत्यर्थः। `ननु अपोनप्त्रपांनप्तृभ्यां' घच्छौ इत्येवास्तु। तत्राह–योगविभाग इति। पैङ्गाक्षीपुत्रीयमिति। पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः। तार्णविन्दवीयमिति। तार्णविन्दुर्देवता अस्येति विग्रहः। शतरुद्रीयमिति। छस्य ईयादेशः। उभयत्र `तद्धितार्थ' इति द्विगुसमासः। `द्विगोर्लुगपत्ये' इति लुकमाशङ्क्याह–घच्छयोरिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.