TBD.
दधिशब्दात् सप्तमीसमर्थात् संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दधनि संस्कृतं दाधिकम्। ननु च संस्कृतार्थे प्राग्वहतेः ठकं वक्ष्यति, तेन एव सिद्धम्? न सिध्यति। दध्ना हि तत् संस्कृतं यस्य दधिकृतम् एव उत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते।
TBD.
–
1200 दध्नष्ठक्। सप्तम्यन्ताद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः। अणोऽपवादः। दाधिकमिति। ठकि इकादेशे `यस्येति चे'ति इकारलोपः। इह दध्नि अधिकरणे संस्कारो लवणादिना भवति। प्राग्वहतेरित्यत्र तु `संस्कृतम्' इति तृतीयान्ताठ्ठग्वक्ष्यते।
993 दध्नष्ठत्। दध्नीति। संस्कारस्त्विह लवणादिना, दधि त्वधिकरणमात्रम्। यस्तु `प्राग्वहते'रित्यत्र `संस्कृत'मिति ठग्वक्ष्यते स तृतीयान्तद्बोध्यः। तेन दध्ना संस्कृतमपि दाधिकमेव।
TBD.