Table of Contents

<<4-2-14 —- 4-2-16>>

4-2-15 स्थण्डिलाच् छयितरि व्रते

प्रथमावृत्तिः

TBD.

काशिका

स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेत् व्रतं गम्यते। व्रतम् इति शास्त्रितो नियमः उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रते इति किम्? स्थाण्डिले शेते ब्रह्मदत्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1198 स्थण्डिलात्। स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः।

तत्त्वबोधिनी

990 स्थण्?डिलात्। व्रतं=शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तन्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे।

Satishji's सूत्र-सूचिः

TBD.