Table of Contents

<<4-2-143 —- 4-2-145>>

4-2-144 विभाषा ऽमनुष्ये

प्रथमावृत्तिः

TBD.

काशिका

पर्वतशब्दाच् छः प्रत्ययो भवति वा अमनुष्ये वाच्ये। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। पर्वतीयानि फलानि, पार्वतानि फलानि। पर्वतीयमुदकम्, पार्वतमुदकम्। अमनुष्ये इति किम्? पर्वतीयो मनुष्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1349 पक्षेऽणिति। अत्यतरस्यांग्रहणादिति भावः। अत्र `युष्मदस्मदो'रिति योगो विभज्यते। आभ्यां छो भवतीत्यर्थः। `खञ् च' इति योगान्तरम्। आभ्यां खञ् च भवतीत्यर्थः। `अन्यतरस्या'मिति योगान्तरम्। आभ्यां छखञौ वा स्तः, पक्षेऽणित्यर्थः। अतो न यथासह्ख्यामिति भाष्ये स्पष्टम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.