Table of Contents

<<4-2-144 —- 4-3-1>>

4-2-145 कृकणपर्णाद् भरद्वाजे

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। भारद्वाजशब्दो ऽपि देशवचन एव, न गोत्रशब्दः। प्रकृतिविशेषणम् च एतन्, न प्रत्ययार्थः। कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः। कृकणीयम्। पर्णीयम्। भारद्वाजे इति किम्? कार्कणम्। पार्णम्। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः। चतुर्थाध्यायस्य तृतीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1065 कृकण। भारद्वाजशब्दोऽत्र देशवचनः, स च न प्रत्ययार्थः, किं तु प्रकृतिविशेषणमित्याह–भारद्वाजदेशेत्यादिना।

Satishji's सूत्र-सूचिः

TBD.