Table of Contents

<<4-2-144 —- 4-3-1>>

4-2-145 कृकणपर्णाद् भरद्वाजे

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। भारद्वाजशब्दो ऽपि देशवचन एव, न गोत्रशब्दः। प्रकृतिविशेषणम् च एतन्, न प्रत्ययार्थः। कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः। कृकणीयम्। पर्णीयम्। भारद्वाजे इति किम्? कार्कणम्। पार्णम्। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः। चतुर्थाध्यायस्य तृतीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

1065 कृकण। भारद्वाजशब्दोऽत्र देशवचनः, स च न प्रत्ययार्थः, किं तु प्रकृतिविशेषणमित्याह–भारद्वाजदेशेत्यादिना।

Satishji's सूत्र-सूचिः

TBD.