TBD.
पर्वतशब्दाच् छः प्रत्ययो भवति शैषिकः। अणो ऽपवदः। पर्वतीयो राजा। पर्वतीयः पुरुषः।
TBD.
–
1348 पर्वताच्च–इत्यादि स्पष्टम्। युष्मदस्मदो। युष्मदस्मच्छब्दयोरिह शब्दस्वरूपपरत्वात् `त्यदादीनि सर्वैर्नित्य'मित्येकशेषो न भवति। पञ्चम्यर्थे षष्ठी। युष्मच्छव्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ्स्यादित्यर्थः। चाच्छः। गर्तोत्तरपदादित्यधिकृतः छश्चकारेण समुच्चीयत इत्यर्थः।
1064 पर्वतीय इति। `तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभू'दित्यत्र तु `पर्वतीयस्य राज्ञ इमे' इत्यर्थे छान्तादण्।
TBD.