Table of Contents

<<4-2-141 —- 4-2-143>>

4-2-142 कन्थापलदनगरग्रामह्रदौत्तरपदात्

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव, वृद्धातिति च। कन्थाद्युत्तरपदाद् देशवाचिनो वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। वाहीकग्रमादिलक्षणस्य प्रत्ययस्य अपवादः। दाक्षिकन्थीयम्। माहिकिकन्थीयम्। दाक्षिपलदीयम्। माहिकिपलदीयम्। दाक्षिनगरीयम्। माहिकिनगरीयम्। दाक्षिग्रामीयम्। माहिकिग्रामीयम्। दाक्षिह्रदीयम्। माहिकिह्रदीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1347 कन्थापलद। ठञ्ञिठादेरपवाद इति। नगरान्ते `रोपधेतो'रिति वुञोऽपवादः। इतरत्र `बाहीकग्रामेभ्यश्चे'ति ठञ्ञिठयोरपवाद इति विवेकः।

तत्त्वबोधिनी

1063 ठञ्ञिठादेरिति। आदिशब्देन `रोपधेतोः'इत्यादिना प्राप्तस्य वुञः।

Satishji's सूत्र-सूचिः

TBD.