Table of Contents

<<4-2-140 —- 4-2-142>>

4-2-141 वृद्धादकैकान्तखौपधात्

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। वृद्धाद् देशवाचिनः अक इक इत्येवम् अन्तात् खकारोपधाच् च प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। कोपधलक्षणस्य अणो ऽपवादः। वाहीकग्रामलक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचाम् 4-2-123 इति च। अकान्तात् तावत् आरीहणकीयम्। द्रौघणकीयम्। इकान्तात् आश्वपथिकीयम्। शाल्मलिकीयम्। खोपधात् कौटिशिखीयम्। आयोमुखीयम्। अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम्। सौसुकीयम्। मौसुकीयम्। ऐन्द्रवेणुकीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1346 वृद्धादकेकान्तखोपधात्। ब्राआहृणकीय इति। कोपधाऽणोऽपवादश्छः। शाल्मलिकीय इति। शाल्मलिको नाम देशः। तत्र भव इत्यर्थः। इकान्तोदाहरणमिदम्। कोपधाऽणपवादः। अयोमुखीय इति। `बाहीकग्रामेभ्यश्चे'ति ठञ्ञिठयोरपवादश्छः।

तत्त्वबोधिनी

1062 वृद्धादकेकान्त। ब्राआहृणकीय इति। `कोपधाद'णित्यण्प्राप्तः। अयोमुखीयमिति। वाहीकग्रामलक्षणौ ठञ्ञिठाविह प्रातौ।

Satishji's सूत्र-सूचिः

TBD.