Table of Contents

<<4-2-140 —- 4-2-142>>

4-2-141 वृद्धादकैकान्तखौपधात्

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। वृद्धाद् देशवाचिनः अक इक इत्येवम् अन्तात् खकारोपधाच् च प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। कोपधलक्षणस्य अणो ऽपवादः। वाहीकग्रामलक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचाम् 4-2-123 इति च। अकान्तात् तावत् आरीहणकीयम्। द्रौघणकीयम्। इकान्तात् आश्वपथिकीयम्। शाल्मलिकीयम्। खोपधात् कौटिशिखीयम्। आयोमुखीयम्। अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम्। सौसुकीयम्। मौसुकीयम्। ऐन्द्रवेणुकीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1346 वृद्धादकेकान्तखोपधात्। ब्राआहृणकीय इति। कोपधाऽणोऽपवादश्छः। शाल्मलिकीय इति। शाल्मलिको नाम देशः। तत्र भव इत्यर्थः। इकान्तोदाहरणमिदम्। कोपधाऽणपवादः। अयोमुखीय इति। `बाहीकग्रामेभ्यश्चे'ति ठञ्ञिठयोरपवादश्छः।

तत्त्वबोधिनी

1062 वृद्धादकेकान्त। ब्राआहृणकीय इति। `कोपधाद'णित्यण्प्राप्तः। अयोमुखीयमिति। वाहीकग्रामलक्षणौ ठञ्ञिठाविह प्रातौ।

Satishji's सूत्र-सूचिः

TBD.