Table of Contents

<<4-2-122 —- 4-2-124>>

4-2-123 रौपधैतोः प्राचाम्

प्रथमावृत्तिः

TBD.

काशिका

वृद्धतित्येव, देशे इति च। तद्विशेसणं प्राग्ग्रहणम्। रौपधातीकारान्ताच् च प्रग्देशवाचिनो वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः। छस्य अपवादः। पाटलिपुत्रकाः ऐकचक्रकाः। ईतः खल्वपि काकन्दी। काकन्दकः। माकन्दी। माक्नदकः। प्राचाम् इति किम्? दात्तामित्रीयः। तपरकराणं विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1328 रोपधेतोः प्राचां। रोपधश्च, ईच्च तयोरिति द्वन्द्वः। षष्ठी पञ्चम्यर्थे। प्राचामिति धेशविशेषणं। तदाह–रोपधादित्यादिना। ईत इति। `उदाह्यियते' इति शेषः। काकन्दक इति। काकन्दी नाम देशः, तत्र भव इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.