Table of Contents

<<4-2-131 —- 4-2-133>>

4-2-132 कोपधादण्

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। ककारौपधात् प्रातिपदिकादण् प्रत्ययो भवति शैसिकः। जनपदवुञो ऽपवादः। अन्यत्र जनपदं मुक्त्वा पूर्वेण एव कोपधादणि सिद्धम्। ऋषिकेषु जातः आर्षिकः। माहिषिकः। अण्ग्रहणम् उवर्णान्तादपि यथा स्यात्, इक्ष्वाकुषु जातः ऐक्ष्वाकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1337 कोपधादण्। माहिषिक इति। महिषिको नाम जनपदः, तत्र भव इत्यर्थः। `प्रस्थोत्तरपदे'त्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.