Table of Contents

<<4-2-132 —- 4-2-134>>

4-2-133 कच्छाऽदिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

देशे इत्येव। कच्छ इत्येवम् आदिभ्यो देशवाचिभ्यः अण् प्रत्ययो भवति शैसिकः। वुञादेरपवादः। काच्छः। सैन्धवः। वार्णवः। कच्छशब्दो न बहुवचनविषयः, तस्य मनुस्यतत्स्थयोर् वुञर्थः पाठः। विजापकशब्दः पठ्यते, तस्य कोपधत्वादेव अणि सिद्धे ग्रहनम् उत्तरार्थम्। कच्छ। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। कुरु। रङ्कु। अणु। खण्ड। द्वीप। अनूप। अजवाह। विजापकः। कुलून। कच्छादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1338 कच्छादिभ्यश्च। काच्छ इति। अत्र वुञोऽपवादोऽण्। सैन्धव इति। #ओर्देशे ठञोऽपवादः।

तत्त्वबोधिनी

1060 सैन्धव इति। `ओर्देशे'इति ठञ्प्राप्तः। वुञि सिद्धे इति। `मनुष्यतत्स्थयो'रित्यनेन।

Satishji's सूत्र-सूचिः

TBD.