Table of Contents

<<4-2-129 —- 4-2-131>>

4-2-130 विभाषा कुरुयुगन्धराभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

कुरु युगन्धर इत्येताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः। कौरवकः, कौरवः। यौगन्धरकः , यौगन्धरः। जनपदशब्दावेतौ, ताभ्याम् अवृद्धादपि इति नित्ये वुञि प्राप्ते विकल्प उच्यते। कुरुशब्दः कच्छादिष्वपि पठ्यते, तत्र वचनादणपि भविष्यति। सैषा युगन्धरार्था विभाष। मनुष्यतत्स्थयोः तु कुरुशब्दान् नित्य एव वुञ् प्रत्ययो भवति, कौरवको मनुस्यः, कौरवकमस्य हसितम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1335 विभाषा कुरु। कुरुयुगन्धरौ जनपदौ। अवृद्धाभ्यामपि ताभ्याम् `अवृद्धादपी'ति नित्यं प्राप्ते विकल्पः।

तत्त्वबोधिनी

1059 विभाषा कुरु। कुरुशब्दः कच्छादिषु पठ\उfffद्ते, तत्सामथ्र्यात्पक्षेऽण्सिद्ध इति परिशेषाद्विभाषाग्रहणं युगन्धरार्थमेव। `अवृद्धादपी'ति नित्यप्राप्तो वुञनेन विकल्प्यते। मनुष्यतत्स्थयोस्तु परत्वान्नित्य एव वुञ्। कौरवको मनुष्यः। कौरवकमस्य हसितम्। एतदर्थमेवास्य कच्छादौ पाठः। अन्यथा अनयैव विभाषया वुञणोः सिद्धौ किं तेनेति भावः।

Satishji's सूत्र-सूचिः

TBD.