TBD.
जनपदतदवध्योः इत्येव। अवृद्धाद् वृद्धाच् च जनपदात् तदवधिवाचिनश्च बहुवनचविषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैसिकः। अण्छयोरपवादः। अवृद्धाज् जनपदात् तावत् अङ्गाः। वङ्गाः। कलिङ्गाः। आङ्गकः। वाङ्गकः। कालिङ्गकः। अवृद्धाज् जनपदावधेः अजमीढाः। अजक्रन्द्राः। आजमीढकः। आजक्रन्दकः। वृद्धाज् जनपदात् दार्वाः। जाम्ब्वाः। दार्वकः। जाम्ब्वकः। वृद्धाज् जनपदावधेः कालञ्जराः। वैकुलिशाः। कालञ्जरकः। वैकुलिशकः। विषयग्रहणमनयत्र भावार्थम्। जनपदएकशेषबहुत्वे मा भूत्। वर्तन्यः। वार्तनः। अपिग्रहणं किम् यावता वृद्धात पूर्वेण एव सिद्धम्? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायि इति समुच्चीयते।
TBD.
–
1330 अवृद्धादपि बहुवचनविषयात्। अवृद्धाज्जनपदादिति। `उदाह्यियते' इति शेषः। आजमीढक इति। अजमीढेषु भव इत्यर्थः। आजमीढक इति। अजमीढेषु भव इत्यर्थः। अजमीढाख्यो जनपदः कस्यचिज्जनपदस्यावधिः। वृद्धाज्जनपदादिति। `उदाह्यियते' इति शेषः। दार्वक इति। `दार्वा' इति बहुवचनान्तो जनपदविशेषे वर्तते। तत्र भव इत्यर्थः। कालञ्जरक इति। कलञ्जरेषुभव इत्यर्थः।
–
TBD.